This page has been fully proofread once and needs a second look.

मधुसूदनीव्याख्यासहितम् ।
 
एवं तावत्प्रतिकूलतर्कं परिहृत्य भगवद्विमुखान्निरस्य सर्वेषां
शास्त्रप्रस्थानानां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति वदन्स्तौति --
त्रयीसांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७ ॥
 
त्रयीति । हे अमरवर, नाना संकीर्णाः पन्थानः नानापथाः ऋज-
वश्च कुटिलाश्च ऋजुकुटिलाः ऋजुकुटिलाश्च ते नानापथाश्चेति
ऋजुकुटिलनानापथास्ताञ्जुषन्ते भजन्तीति तथा तेषां नृणामधि-
कार्यनधिकारिसाधारणानां तत्तत्साधनानुष्ठानैः साक्षात्परम्परया वा
त्वमेवैको गम्यः प्राप्यः नत्वन्यः कश्चिदित्यर्थः । अत्र दृष्टान्तमाह-
पयसामर्णव इव । यथा ऋजुपथजुषा गङ्गानर्मदादीनां साक्षादेव स-
मुद्रः प्राप्यः, यथा वा कुटिलपथजुषां यमुनासरय्वादीनां गङ्गादिप्र-
वेशद्वारा परंपराया, एवं वेदान्तवाक्यश्रवणमननादिनिष्ठानां साक्षात्त्वं
प्राप्यः,अन्येषां त्वन्तःकरणशुद्धितारतम्येन परम्परया त्वमेव प्राप्यः ।
चेतनत्वेनैव मोक्षयोग्यत्वात्परमात्माभ्युपगमाच्चेत्यर्थः । ननु ऋजु-
मार्गे सति तं विहाय किमिति कुटिलमार्गं भजन्ते ऋजुमार्गस्यैव
शीघ्रफलदायित्वादित्यत आह । प्रभिन्ने प्रस्थाने इदं परं पथ्यं अदः
परं पथ्यमिति च रुचीनां वैचित्र्यात्तस्मिंस्तस्मिञ्शास्त्रप्रस्थाने इदमेव
श्रेष्ठमिदमेव मम हितमितीच्छाविशेषाणामनेकप्रकारत्वात् प्राग्भवी-
यतत्तत्कर्मवासनावशेव ऋजुत्वकुटिलत्वेनिश्चयासामर्थ्यात्कुटिलेऽपि
ऋजुभ्रान्त्या प्रवर्तन्त इत्यर्थः । प्रस्थानभेदमेव दर्शयति । त्रयी सांख्यं
योगः पशुपतिमतं वैष्णवमिति । सर्वशास्त्रोपलक्षणमेतत् । तथाहि
त्रयीशब्देन वेदत्रयवाचिना तदुपक्षिता अष्टादश विद्या अप्यत्र
विवक्षिताः । तत्र ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्च -