This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
एवं प्रतिकूलतर्कं परिहृत्यानुकूलतर्कमुद्भावयन्स्तौति—
 
अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद्भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥
 
अजेति । हे अमरवर सर्वदेवश्रेष्ठ, अवयववन्तोऽपि सावयवा
अपि लोकाः क्षित्यादयः किमजन्मानो जन्महीनाः । किंशब्द आक्षेपे ।
तेन न जन्महीनाः किंतु जन्या एवेत्यर्थः । तेन सावयवत्वेन क्षित्यादेर्न
जन्यत्वहेतोरसिद्धत्वम् । 'यावद्विकारं तु विभागो लोकवत्' इति
न्यायात् स्वसमानसत्ताकभेद प्रतियोगित्वेनैव जन्यत्वनियमाच्च । तथा
जगतां क्षित्यादीनां भवविधिरुत्पत्तिक्रियाऽधिष्ठातारं कर्तारमनादृत्या-
नपेक्ष्य किं भवति । अपेक्ष्यैव भवतीत्यर्थः । तेन कार्यत्वसकर्तृकत्वयो-
रव्यभिचारान्नानैकान्तिकत्वं हेतोः । तथानीशो वा ईश्वरादन्यो वा
यदि कुर्यात्तर्हि भुवनजनने कः परिकरः का सामग्री । अनीश्वरस्य
स्वशरीररचनामप्यजानतो विचित्रचतुर्दशभुवनरचनाऽसंभवादीश्वर
एव रचनां करोतीत्यर्थः । परिकरमिति पाठे को वानीश्वरो भुवन-
जनने परिकरमारम्भं कुर्यात् । अपित्वीश्वर एव कुर्यादित्यर्थः । एते-
नार्थान्तरता परिहृता । एवमनुमानदोषानुद्धृत्य शङ्कितदोषान्तरं नि-
राकुर्वन्नुपसंहरति—यत इति । यत एवं सर्वप्रमाणसिद्धस्त्वं, अतस्ते
मन्दा मूढा नतु विद्वांसः इमे ये त्वां प्रति संशेरते संदेहवन्तः कि-
मुत विपर्ययवन्त इत्यर्थः। 'जन्माद्यस्य यतः' इति न्यायेन 'यतो वा
इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि-
शन्ति । तद्ब्रह्म' 'आनन्दो ब्रह्मेति व्यजानात्' इत्यादिश्रुतिरेव परमे-
श्वरे प्रमाणम् । अनुमानं त्वनुकूलतर्कमात्रं श्रुतेर्न स्वातन्त्र्येण प्रमा-
णमिति द्रष्टव्यम् । हरिपक्षेऽप्येवम् ॥ ६ ॥