2023-01-31 13:18:11 by shivjun1685
This page has been fully proofread once and needs a second look.
मधुसूदनीव्याख्यासहितम् ।
णानां स्वगोचरशून्यत्वात्स्वागोचरे प्रामाण्याभावो युक्त एवेति
भावः । कुतर्कमेवाह —किमीह इत्यादिना । स धाता परमेश्वरस्त्रिभुवनं
सृजतीति सिद्धान्तमनूद्य तत्र दूषणमाह । खलु किंतु का ईहा चेष्टा
यस्येति किमीहः । तथा कः कायः शरीरं कर्तृरूपं यस्येति किं-
कायः । क उपाय: सहकारिकारणमस्येति किमुपाय: । क आधारो-
ऽधिकरणमयेति किमाघार: । किमुपादानं समवायिकारणं भुवना-
कारेण निष्पाद्यमस्येति किमुपादानः । सर्वत्र किंशब्द आक्षेपे । इति-
शब्दः प्रकारार्थः । चशब्दः शङ्कान्तरसमुच्चयार्थः । कुलालो हि घटं
कुर्वन्स्वशरीरेण व्याप्रियमाणेन चक्रभ्रमणादिचेष्टया सलिलसूत्राद्यु-
पायेन चक्रादावाधारे मृदमुपादानभूतां घटाकारां करोति, एवं जग-
त्कर्तापि वाच्यः । तथाच कुलालादिवदनीश्वर एवेत्यभिप्रायः । घटा-
दिदृष्टान्तेन खलु क्षित्यादेः सकर्तृकत्वं साध्यते । तथाच घटादिकर्तरि
कर्तृत्वौपयिकं यावद्दृष्टं क्षित्यादिकर्तर्यपि तावदवश्यं स्वीकर्तव्यम्,
दृष्टान्तस्य तुल्यत्वात् । तथाचोभयतःपाशा रज्जुः । तदङ्गीकारेऽस्म-
दादितुल्यत्वादनीश्वरत्वं तदनङ्गीकारे च कर्तृत्वानुपपत्त्याऽसिद्धिरेवे-
त्येवंरूपः कुतर्क इत्यर्थः । सिद्धान्तं वदन्कुतर्कं विशिनष्टि-अनवसर
दुःस्थः । नास्त्यवसरोऽवकाशोऽस्येत्यनवसरः, अतएव दुःस्थो दुष्ट-
त्वेन स्थितः । विचित्रनानाशक्तिमायावशेन सर्वनिर्मातरि सर्वतर्का-
गोचरे त्वयि नास्ति कुतर्कावसर इत्यर्थः । तथाचोक्तम्- 'अचिन्त्याः
खलु ये भावा न तांस्तर्केण योजयेत्' इति । नच घटादिकर्तरि याव-
दृष्टं तावत्क्षित्यादिकर्तर्यपि साधनीयम्, व्याप्तिं विना सामानाधि-
करण्यमात्रस्यासाधकत्वात् । अन्यथा महानसे धूमवह्न्योर्व्याप्तिग्रह-
णसमये एव व्यञ्जनादिमत्त्वमपि दृष्टमिति पर्वतादावपि तदनुमानं
स्यात् । तस्मात्साधर्म्यसमा जातिरेषा । स्वव्याघातकत्वादनुत्तरम् ।
पराक्रान्तं चात्र सूरिभिरित्युपरम्यते । हरिपक्षेऽप्येवम् ॥ ५ ॥
-