2023-01-29 17:54:45 by shivjun1685
This page has been fully proofread once and needs a second look.
महिम्नस्तोत्रम् ।
इत्यर्थः । तिसृषु तनुषु ब्रह्मविष्णुमहेश्वराख्यासु मूर्तिषु व्यस्तं वि-
विच्य न्यस्तम् । प्रकटीकृतमितियावत् । उपलक्षणं चैतत्सर्वेषामवतारा-
णाम् । एतेन प्रत्यक्षं प्रमाणमुक्तम् । तेन सर्वप्रमाणप्रमितमित्यर्थः । की-
दृशीं व्याक्रोशीम् । अस्मिन्नभव्यानां अस्मिंस्त्रैलोक्येऽपि नास्ति भव्यं
भद्रं कल्याणं येषां तेऽभव्यास्तेषां रमणीयां मनोहरां वस्तुतस्त्वरमणी-
ममनोहराम् । अमनोहरेऽपि मनोहरबुद्धिभ्रान्तिरभाग्यातिशयात्तेषा-
मित्यर्थः ॥ हरिपक्षेप्येवम् । अथवा अस्मिंस्तवैश्वर्ये अभव्यानां मध्ये
जडधियो जडमतेरत्यन्तमपकृष्टस्येत्यर्थः । तस्य वस्तुतोऽरमणीं व्या-
क्रोशीं विहन्तुं एके मुख्या रमणीयां व्याक्रोशीं विदधत इत्यर्थः ।
जडधिय इत्येकवचनेन पूर्वपक्षिणस्तुच्छत्वम्, एक इति बहुवच-
नेन सिद्धान्तिनामतिमहत्त्वं सूचितम् ॥ ४ ॥
ये त्वात्मप्रत्यक्षमपह्नुवते त्रयीं चान्यथा वर्णयन्ति, तेऽनुमानेनैव
निराकार्याः । तच्चानुमानं क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवदिति
जगदुदयरक्षाप्रलयकृदित्यनेन सूचितम् । तत्र पूर्वश्लोकोक्तव्याक्रोशी-
बीजप्रतिकूलतर्कमुद्भावयन्तः पूर्वपक्षिणो निराकुर्वन्स्तौति । अथवा
कीदृशीं व्याक्रोशीं विदधत इत्याकाङ्क्षायां तां वदन्स्तौति -
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ५ ॥
किमिति । हे वरदेति पूर्वश्लोकात्संबोधनानुषङ्गः । त्वयि विषये
कुतर्कस्तर्काभासः कांश्चिद्धतधियः कानपि दुष्टबुद्धीन् जगतो विश्व-
स्यापि मोहायाऽन्यथाप्रतिपत्तये मुखरयति वाचालान्करोति । कीदृशे
त्वयि । अतर्क्य तर्कागोचरमैश्वर्यं यस तस्मिन्सर्वतर्कागोचरे त्वयि
यः कश्चित्तर्कः स्वातत्र्येणोपन्यस्यते स सर्वोप्याभास इत्यर्थः । प्रमा-