This page has been fully proofread once and needs a second look.

दुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गे वा श्वभ्रमेव वा" इति । तेन परम-
कारुणिकस्त्वं शरणागतवाणीपावनपुण्यहेतुस्तुतितत्परं लोकं कर्तुं
स्वयमेव प्रयतमानो यया कयापि स्तुत्या प्रसीदसीत्यर्थः ॥ ३ ॥
 
एवं हरिहरयोः स्तुत्यत्वं सफलस्तुतिकत्वं च निरूप्य ये के-
चित्पापीयांसस्तस्य सद्भावेऽपि विवदन्ते तान्निराकुर्वन्स्तौति -
 
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृ-
त्त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन्वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४ ॥
 
तवेति । हे वरद ईप्सितप्रद, यत्तव ऐश्वर्यं तद्विहन्तुं नि-
राकर्तुं एके जडधियः केचिन्मन्दबुद्धयः व्याक्रोशीं विदधते ।
साक्षेपमुच्चैर्भाषणमाक्रोशस्तस्य व्यतिहारो व्याक्रोशी । अन्येन
कर्तुमारब्धमन्यः करोति अन्येन चान्यः इति कर्मव्यतिहारः ।
व्याङ्पूर्वात्क्रोशेः 'कर्मव्यतिहारे णच् स्त्रियाम्' इति पाणिनि-
स्मरणात् ततः स्वार्थे अञ् 'णचः स्त्रियामञ्' इति सूत्रात् । ततः
स्त्रियां ङीप् । तां व्याक्रोशीमहमहमिकया कुर्वते यत्सर्वप्रमाणप्रमितं
तदपि जिघांसन्तीति यत्तद्भ्यां मन्दबुद्धित्वं द्योतितम् । अतएव कर्त्र-
भिप्राये क्रियाफले विदधातेरात्मनेपदम् । नहि तद्व्याक्रोशीविधानात्त-
वैश्वर्यव्याघातः किंतु तेषामेवाधःपात इत्यर्थः । कीदृशं तवैश्वर्यम् ।
जगदुदयरक्षाप्रलयकृत् जगत आकाशादिप्रपञ्चजातस्योदयं सृष्टिं,
रक्षां स्थितिं, प्रलयं संहारं च करोतीति तथा । अनेनानुमान-
मुक्तम् । तच्च "अजन्मानो लोकाः" इत्यत्र व्यक्तं वक्ष्यते। तथा त्रयीवस्तु
त्रय्याः त्रयाणां वेदानां तात्पर्येण प्रतिपाद्यं वस्तु "सर्वे वेदा यत्पदमा-
मनन्ति" इति श्रुतेः । अनेनागमप्रमाणमुक्तम् । तथा गुणैः सत्वरजस्त-
मोभिः ली(लयातै)लोपात्तैर्भिन्नासु पृथक्कृतासु । वस्तु वस्तुगत्या भेद