2023-01-29 18:33:35 by shivjun1685
This page has been fully proofread once and needs a second look.
महिम्नस्तोत्रम् ।
हेतुगर्भविशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो
निःश्वासवदनायासेनाविर्भावितवतः । कीदृशीः । मधुवत्स्फीताः माधु-.
र्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः । तथा परमममृतं निरति-
शयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां
शब्दार्थगतयोर्निरतिशयमाधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश-
ब्दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंका-
रातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि
न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं
स्तुत्येत्यते आह—मम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो
गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा-
येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिर्व्यवसितोद्यता नतु स्तुतिकौशले-
न त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरी-
यकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्येवम् । मथ्यतेऽस्मिन्द-
यादीति मथनं गोकुलम्, अथवा मथ्यन्ते आपोऽमृतार्थमिति मथनः
क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथनसंबोध-
नार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि पर-
मममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुर-
गुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य तबव मधुस्फीता मधुरिम्णा
व्याप्ता अन्तरा कटुत्वलेशेनापि रहितायावागपि वाग्देवता सरस्वत्यपि
किं विस्मयपदम्। नेत्यर्थः । तस्साया मद्वाचश्च महदन्तरमतिप्रसिद्धमेव ।
यद्यप्येवं तथापि त्वदिच्छयैव ममेयं प्रवृत्तिरित्याह-ममत्वेतामिति ।
निजगुणकथनपुण्येन ममत्वेतां ममत्वे वर्तमानां संसारसंसर्गकलु-
षितां वाणीं वाचं । एतस्य स्तुतिकर्तुरिति शेषः । पुनामि निष्कलुषां क-
रोमीत्येतस्मिन्नर्थे हे पुरमथन, भवतो बुद्धिर्व्यवसिता यतोऽतोनाय-
त्तैव मम प्रवृत्तिरित्यर्थः । श्रुतिश्च भवति 'एष उ ह्येव साधु कर्म कार-
यति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कारयति
यमधो निनीषते' इति । स्मृतिश्च'अज्ञो जन्तुरनीशोऽयमात्मनः सुख-
हेतुगर्भविशेषणमाह । तव कीदृशस्य । वाचो वेदलक्षणा निर्मितवतो
निःश्वासवदनायासेनाविर्भावितवतः । कीदृशीः । मधुवत्स्फीताः माधु-.
र्यादिशब्दगुणालंकारविशिष्टत्वेन मधुराः । तथा परमममृतं निरति-
शयामृतवदत्यास्वाद्याम् । एतेनार्थगतमाधुर्यमुक्तम् । परमेश्वरवाचां
शब्दार्थगतयोर्निरतिशयमाधुर्ययोरपि मिथस्तारतम्यं मध्वमृतश-
ब्दाभ्यां द्योत्यते । अयं च वाचामुत्कर्षो महान् यत्र शब्दगुणालंका-
रातिशयं विनार्थगुणालंकारातिशय इति यत्र हिरण्यगर्भस्य वाण्यपि
न चमत्कारकारणं तत्र का वार्ताऽस्मदादिवाण्या इत्यर्थः । तर्हि किं
स्तुत्येत्यते आह—मम त्वित्यादि । हे पुरमथन त्रिपुरान्तक, भवतो
गुणकथनपुण्येन एतां स्वां वाणीं पुनामि निर्मलीकरोमीत्यभिप्रा-
येणैतस्मिन्नर्थे स्तुतिरूपे मम बुद्धिर्व्यवसितोद्यता नतु स्तुतिकौशले-
न त्वां रञ्जयामीत्यभिप्रायेणेत्यर्थः । वाङ्नैर्मल्येन मनोनैर्मल्यं नान्तरी-
यकमिति स्तुतेः सार्थक्यमुक्तम् ॥ हरिपक्षेप्येवम् । मथ्यतेऽस्मिन्द-
यादीति मथनं गोकुलम्, अथवा मथ्यन्ते आपोऽमृतार्थमिति मथनः
क्षीरोदः पुरं मन्दिरं गोकुलं क्षीरोदो वा यस्येति पुरमथनसंबोध-
नार्थः । सर्वमन्यत्समानम् । अथवा हे ब्रह्मन्, वाचः सर्वस्या अपि पर-
मममृतं निरतिशयसारं निश्चयेन मितवतः सम्यगनुभूतवतः सुर-
गुरोर्हिरण्यगर्भादिसर्वदेवतोपाध्यायस्य त
व्याप्ता अन्तरा कटुत्वलेशेनापि रहिता
किं विस्मयपदम्। नेत्यर्थः । तस्