This page has been fully proofread once and needs a second look.

मधुसूदनी व्याख्यासहितम् ।
 
पोऽपि ज्ञेयत्वाभावान्न स्तुत्यश्चेत्तर्हि स्वमतिपरिणामावधि गृणन्निति
पूर्वोक्तं विरुद्धयेतेत्यत आह - पदे त्विति । अर्वाचीने नवीने भक्तानु-
ग्रहार्थं लीलया गृहीते वृषभपिनाकपार्वत्यादिविशिष्टे रूपे कस्य विदुषो
मनो न पतति नाविशति, कस वचो नाविशति । अपितु सर्वस्यापि मनो
वचश्च विशतीत्यर्थः । तत्र हिरण्यगर्भस्यास्मदादेश्च सममेव स्तुतिक-
र्तृत्वमिति न पूर्वापरविरोधः ॥ हरिपक्षेप्येवम् । अथवा यं अतद्व्यावृ-
त्त्या कार्यप्रपञ्चभेदाच्चकितं भीतं मद्भिन्नत्वेन कार्यप्रपञ्चं मापश्यत्विति
शङ्कमानं श्रुतिरभिधत्ते इति पूर्ववत् । अर्वाचीने पदे तु कमलकम्बु-
कौमोदकीरथाङ्गकमलालयाकौस्तुभाद्युपलक्षिते नवजलधरश्याम-
धामनि श्रीविग्रहे वैकुण्ठवर्तिनि वेणुवादनादिविविधविहारपरायणे
गोपकिशोरे वा वृन्दावनवर्तिनि कस्य मनो नापतति, कस्य वचश्च
नापतति । अपगता ततिर्विस्तारो यस्मात्तदपतति । संकुचितमि-
त्यर्थः । तव श्रीविग्रहानुचिन्तने तद्गुणानुकथने च विषयान्तरपरि-
त्यागेन विलीयमानावस्थं मनो वचश्चैकमात्रविषयतया संकुचितं
भवति । तव श्रीविग्रहे एवासक्तं भवतीति भावः ॥ २ ॥
 
नन्वेवं स्तुत्यत्वेऽपि हरिहरयोः सर्वज्ञयोरनभिनवया स्तुत्या न
मनोरञ्जनं तद्विना न तत्प्रसादस्तं विना न फलमिति पुनरपि
स्तुतेर्वैयर्थ्ये प्राप्ते सार्थक्यं दर्शयन्स्तौति—
 
मधुस्फीता वाचः परमममृतं निर्मितवत-
स्तव ब्रह्मन्किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्पुरमथन बुद्धिर्व्यवसिता ॥ ३ ॥
 
मध्विति । हे ब्रह्मन् विभो, सुरगुरोर्ब्रह्मणोऽपि वाग्वाणी तव किं
विस्मयपदं चमत्कारकारणं किम् । किंशब्द आक्षेपे । नेथर्त्यः । तत्र