This page has been fully proofread once and needs a second look.

महिम्नस्तोत्रम् ।
 
अतीत इति । पूर्वोक्तं संबोधनमावर्तनीयम् । तव महिमा
सगुणो निर्गुणश्च वाङ्मनसयोः पन्थानं विषयत्वमतीतोऽतिक्रान्तः ।
चशब्दोऽवधारणे । अतीत एवेत्यर्थः । अनन्तत्वान्निर्धर्मकत्वाच्च ।
तथाच श्रुतिः 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति ।
वागविषयत्वे तत्र श्रुतेः प्रामाण्यं न स्यादित्याशङ्क्याह । यं
श्रुतिरप्यपौरुषेय्यपि वेदवाणी चकितं भीतं यथा स्यात्तथा अभि-
धत्ते तात्पर्येण प्रतिपादयति । सगुणपक्षे किंचिदप्ययुक्तं मा-
भूदिति, निर्गुणपक्षे तु स्वप्रकाशस्यान्याधीनप्रकाशता मा भूदिति
भयम् । केन प्रकारेण । अतद्व्यावृत्त्या सगुणपक्षे न तद्व्यावृत्तिरतद्व्या-
वृत्तिस्तया । अभेदेनेत्यर्थः । 'सर्व खल्विदं ब्रह्म' 'सर्वकर्मा सर्व-
कामः' इत्यादिना सर्वाभेदेनैव भगवन्तं प्रतिपादयति न त्वेकैकशो
महिमानं वदतीत्यर्थः । निर्गुणपक्षे तु न तत् अतत् । अविद्यातत्कार्या-
त्मकमुपाधिद्वयमिति यावत् । तद्व्यावृत्त्या तत्परित्यागेन जहद[^१] जहल्लक्ष-
णयेत्यर्थः । मायाविद्योपहितचैतन्यशक्तं तत्पदं तत्कार्यबुद्ध्याद्युपहि-
तचैतन्यशक्तं त्वंपदमुपाधिभागत्यागेनानुपहितचैतन्यस्वरूपं स्व-
प्रकाशमपि तदाकारवृत्तिमात्रजननेनाविद्यातत्कार्यनिवृत्त्या वोधय-
तीवेति न तावता वाग्विषयत्वं मुख्यं तस्येत्यर्थः । अतएव स
तादृशः सगुणो निर्गुणश्च महिमा कस्य स्तोतव्यः । कर्तरि पष्ठी । न
केनापि स्तोतुं शक्य इत्यर्थः । सगुणस्य स्तोतव्यत्वाभावे हेतुमाह ।
कतिविधगुणः कतिविधा अनेकप्रकारा गुणा यत्र स तथा । अनन्त-
त्वादेव न स्तुत्यर्ह इत्यर्थः । निर्गुणस्य स्तोतव्यत्वाभावे हेतुमाह—
कस्य विषय इति । न कस्यापि विषयः निर्धर्मकत्वात् । अत एवाविष-
यत्वान्न स्तुत्यर्ह इत्यर्थः। सगुणो ज्ञेयत्वेऽप्यनन्तत्वात् निर्गुणस्त्वेकरू-
[^१] शक्त्युपस्थितार्थे किंचिदंशं परित्यज्य अवशिष्टार्थे लक्षणा जहजद-
हलक्षणा --यथा तत्त्वमसीत्यादौ तत्त्वमिति पदोपस्थितयोः सर्वज्ञत्व किंचि
ज्ज्ञत्वांशयोः परित्यागपूर्वकं केवलचैतन्याभेदप्रतिपादनमित्याद्यूह्यम्