This page has not been fully proofread.

क्रियागुप्तादि चित्राख्यानम्
 
८३
 
यो धनसमीहया आगतस्तस्मै सर्वे पाण्डवा गां च सुवर्ण च
 
विविधानि रत्नानि च अदुः ददति स्म ।
 
इति क्रिया गुप्तम् ॥
 
535
 
गौरीनखरसादृश्यश्रद्धया शशिनं दधौ ।
 
हैव गोप्यते कर्ता वर्षेणापि न लभ्यते ॥ २ ॥
 
कस्यापि ।
 
इः कामः तं हन्तीति इहा ईश्वरः ।
इति कर्तृगुप्तम् ॥
 
536
 
अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।
 
ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम् ॥ ३ ॥
 
कस्यापि ।
 
हे ब्राह्मण । इभ्य: समृद्धः ।
 
इत्यपि कर्तृगुप्तम् ॥
 
537
 
एहि दे रमणि पदय कौतुकं
 
धूलिधूसरतनुं दिगम्बरम् ।
सापि तद्दनपङ्कजं पपौ
 
भ्रातरुक्तमपि किं न बुध्यसे ॥ ४ ॥
 
कस्यापि ।
 
की पृथिव्यां तुकं बालं पश्य ।
 
इति कर्मगुप्तम् ॥
 
538
 
पिबतस्ते शरावेण वारि कल्हार शीतलम् ।
केनेमी दुर्विदग्धेन हृदये संनिरोपितो ॥ ५ ॥
 
शरी बाणी । एण हरिण ।
 
इति संधिगुप्तम् ॥