This page has not been fully proofread.

८२
 
शार्ङ्गधरपद्धतिः
 
नित्यमविनाशि । पुनः किंभूतम् सप्ताम्बुजोद्भासितं सप्तकमलशोभि-
तम् । सप्ताम्बुजानां विवृतिः । चत्वारि मुखपद्मानि ब्रह्मणः । एकं
नाभिसरोरुहम् । एकं विष्णोर्मुखम् । एकं लक्ष्म्या मुखम् । एवं
सप्ताम्बुजोद्भासितम् । पुनः किंभूतम् । चञ्चबादशनीलनीरजयुतं शोभ-
मानवादशनीलोत्पल युक्तम् । द्वादशनीलनीरजानां विवृतिः । अष्टौ
नयनानि ब्रह्मणः । द्वे विष्णो: । द्वे लक्ष्म्याः । एवं द्वादशनीलनीर-
जयुतम् । अत्रापह्नुतिरलंकारः । इति सुबोधमेतत्पद्यम् ।
 
533
 
विकसति नयनाभ्यां कैरवं पङ्कजं च
इथयति चरणाजं ब्रह्मचर्य पयोधेः ।
उरसि लसति यस्य श्रेयसां संप्रदाय
 
स फणिनमधिशेते पद्मया पद्मनाभः ॥ २० ॥
अभिरामपशुपतेः ।
 
अस्य व्याख्या । स पद्मनाभः पद्मया सह फणिनं शेषमधि-
शेते । यस्य नयनाभ्यां चन्द्रसूर्यलक्षणाभ्यां कैरवं पङ्कजं च विक
सति । यस्य चरणाजं गङ्गाजनकं पयोधर्ब्रह्मचर्य लथयति दूरी-
करोति । यस्योरसि श्रेयसां संप्रदायः कौस्तुभमणिर्लसति । एवंविधः
पद्मनाभः फणिनमधिशेते । अत्राप्यपह्नुतिरलंकारः । इति सुबोध-
मेतत्पद्यम् ।
 
अथ क्रियागुप्त-कर्तृगुप्त-कर्मगुप्त-
संधिगुप्त- बिन्दुमती - चि-
त्र-भाषाचित्राख्यानम् ॥ ३४ ॥
 
534
 
आगतः पाण्डवाः सर्वेदुर्योधनसमोहया ।
वस्मै गां च सुवर्ण च रत्नानि विविधानि च ॥ १ ॥
 
कस्यापि ।