This page has been fully proofread once and needs a second look.


यदि दासी असि नेच्छामि । नो दासी असि पिबाम्यहम् ।
इति सुबोधमेतत्पद्यम् ।
531
नदीज लङ्केशवनारिकेतु-
र्नगाह्वयो नाम नगारिसूनुः ।
एषोङ्गनावेषधरः प्रमाथी
जित्वा वयं नेष्यति चाद्य गा वः ॥ १८ ॥

बालभारतस्य ।

नाम भो नदीज भीष्म एष दृश्यमानः अङ्गनावेषधरः स्त्रीरू -
प्रधारी लङ्केशवनारिकेतुर्वानरध्वजः नगाह्वयः अर्जुननामा यतः ।
किंभूतः नगारिसूनुरिन्द्रपुत्रः । उ भोः कौरवाः अयं प्रमाथी हन्ता ।
अद्य वो युष्मान् जित्लावा गाश्च नेष्यति । इति सुबोधमेतत्पद्यम् ।

532

चञ्चद्वादशनीलनीरजयुतं सप्ताम्बुजोद्भासितं
नित्यं षोडशशोणपद्मरुचिरं धात्रानिशं सेवितम् ।
क्षीराम्भोधिगृहं सहस्रदलसत्पर्यङ्कविश्रान्ति य-
त्पायाद:द्वः कमलाङ्ग सङ्गिशयनं तन्नीलरोचिर्महः ॥ १९ ॥
शार्ङ्गधरस्य ।

अस्य व्याख्या । तन्त्रीनीलरोचिः श्यामप्रभं महस्तेजः कृष्णल-
क्षणं वो युष्मान्पायात् । तत्कंकिंभूतम् । कमलाङ्ग सङ्गिशयनं लक्ष्मी
सनाथशय्यम् । पुन: किंभूतम् । सहस्रदलसत्पर्यङ्क विभाश्रान्ति सहस्रफ-
णादिव्यशयनशेषस्थितम् । पुनः किंभूतम् । क्षीराम्भोधिगृहं दुग्ध-
समुद्रनिवासम् । पुन: किंभूतम् । धात्रा नाभिसरोरुहस्थेन
ब्रह्मणा अनिशं सेवितमध्यासितम् । पुनः किंभूतम् । षोडशशोणपद्म-
रुचिरं षोडशारुणकमलमनोहरम् । षोडशशोणपद्मानां विवृतिः ।
विष्णोश्चत्वारो हस्ता हौद्वौ चरणीणौ । तावन्त एव ब्रह्मणः । द्वौ करो होरौ द्वौ
चरणौ लक्ष्म्याः । एवं षोडशगो शोणपद्मरुचिरम् । पुन: किंभूतम् ।