This page has not been fully proofread.

प्रहेलिकापह्नुतिकूटाख्यानम्
 
८१
 

यदि दासी असि नेच्छामि । नो दासी असि पिबाम्यहम् ।

इति सुबोधमेतत्पद्यम् ।
 

531
 

नदीज लङ्केशवनारिकेतु-

र्नगाह्वयो नाम नगारिसूनुः ।
 

एषोङ्गनावेषधरः प्रमाथी
 

जित्वा वयं नेष्यति चाद्य गा वः ॥ १८ ॥
 

 
बालभारतस्य ।
 

 
नाम भो नदीज भीष्म एष दृश्यमानः अङ्गनावेषधरः स्त्रीरू -

प्रधारी लङ्केशवनारिकेतुर्वानरध्वजः नगाह्वयः अर्जुननामा यतः ।

किंभूतः नगारिसूनुरिन्द्रपुत्रः । उ भोः कौरवाः अयं प्रमाथी हन्ता ।

अद्य वो युष्मान् जित्ला गाव नेष्यति । इति सुबोधमेतत्पद्यम् ।
 

 
532
 

 
चञ्चद्वादशनीलनीरजयुतं सप्ताम्बुजोद्भासितं

नित्यं षोडशशोणपद्मरुचिरं धात्रानिशं सेवितम् ।

क्षीराम्भोधिगृहं सहस्रदलसत्पर्यङ्कविश्रान्ति य-

पायाद: कमलाङ्ग सङ्गिशयनं तन्नीलरोचिर्महः ॥ १९ ॥

शार्ङ्गधरस्य ।
 

 
अस्य व्याख्या । तन्त्रीलरोचिः श्यामप्रभं महस्तेजः कृष्णल-

क्षणं वो युष्मान्पायात् । तत्कंभूतम् । कमलाङ्ग सङ्गिशयनं लक्ष्मी

सनाथशय्यम् । पुन: किंभूतम् । सहस्रदलसत्पर्यङ्क विभान्ति सहस्रफ-

णादिव्यशयनशेषस्थितम् । पुनः किंभूतम् । क्षीराम्भोधिगृहं दुग्ध-

समुद्रनिवासम् । पुन: किंभूतम् । धात्रा नाभिसरोरुहस्थेन

ब्रह्मणा अनिशं सेवितमध्यासितम् । पुनः किंभूतम् । षोडशशोणपद्म-

रुचिरं षोडशारुणकमलमनोहरम् । षोडशशोणपद्मानां विवृतिः ।

विष्णोश्चत्वारो हस्ता हौ चरणी । तावन्त एव ब्रह्मणः । द्वौ करो हो

चरणौ लक्ष्म्याः । एवं षोडशगोणपद्मरुचिरम् । पुन: किंभूतम् ।