This page has been fully proofread once and needs a second look.

८०
 
शार्ङ्गधरपद्धतिः
 

अथ कूटाः
 

527
 

केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।
 

रुदन्ति कौरवाः सर्वे हा केशव कथं गतः ॥ १४ ॥
 

कस्यापि ।
 

के पानीये । शवं मृतकम् । द्रोण: कृष्णकाकः । कौरवाः सृ
-
गाला: । इति सुबोधमेतत्पद्यम् ।
 

528
 

अम्बरमम्बुनि पत्रमराति:

पीतमहीनगणस्य ददाह ।
 

यस्य वधूस्तनयं गृहमन्ब्जा
 

पातु स वो हरलोचनवह्निः ॥ १५ ॥
 

दूरान्वयः । कस्यापि
 

स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम् । यस्य गृहमम्बुनि ।

यस्य पत्रमही नगणस्यारातिः । यस्य वधूरब्जा । यस्य तनयं हरलो-

चनवह्निर्दिदाह । इति सुबोधमेतत्पद्यम् ।
 

529
 

लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।
 

बिभ्यती धीवरेभ्यो या जडेष्वेव निमज्जति ॥ १६ ॥
 

कस्यापि ।
 

लक्ष्मीर्यादोनिधेः समुद्रस्य यादो जलजन्तुः अदो वचो वादोचितं

न । यतो धीवरेभ्यो विचक्षणेभ्यो बिभ्यती त्रस्यन्ती जडेष्वेव कदर्ये-
ध्

ष्
वेव निमज्जाते तिष्ठति । इति सुबोधमेतत्पद्यम् ।
 

530
 

पानीयं पातुमिच्छामि त्वत्त: कमललोचने ।
 

यदि दास्यसि नेच्छामि नो दास्यसि पिवाबाम्यहम् ॥ १७ ॥
 

कस्यापि ।