This page has not been fully proofread.

८०
 
शार्ङ्गधरपद्धतिः
 
अथ कूटाः
 
527
 
केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।
 
रुदन्ति कौरवाः सर्वे हा केशव कथं गतः ॥ १४ ॥
 
कस्यापि ।
 
के पानीये । शवं मृतकम् । द्रोण: कृष्णकाकः । कौरवाः सृ
गाला: । इति सुबोधमेतत्पद्यम् ।
 
528
 
अम्बरमम्बुनि पत्रमराति:
पीतमहीनगणस्य ददाह ।
 
यस्य वधूस्तनयं गृहमन्जा
 
पातु स वो हरलोचनवह्निः ॥ १५ ॥
 
दूरान्वयः । कस्यापि
 
स कृष्णो वो युष्मान्पातु यस्याम्बरं पीतम् । यस्य गृहमम्बुनि ।
यस्य पत्रमही नगणस्यारातिः । यस्य वधूरब्जा । यस्य तनयं हरलो-
चनवर्दिदाह । इति सुबोधमेतत्पद्यम् ।
 
529
 
लक्ष्मीर्यादोनिधेर्यादो नादो वादोचितं वचः ।
 
बिभ्यती धीवरेभ्यो या जडेष्वेव निमज्जति ॥ १६ ॥
 
कस्यापि ।
 
लक्ष्मीर्यादोनिधेः समुद्रस्य यादो जलजन्तुः अदो वचो वादोचितं
न । यतो धीवरेभ्यो विचक्षणेभ्यो बिभ्यती त्रस्यन्ती जडेष्वेव कदर्ये-
ध्वेव निमज्जाते तिष्ठति । इति सुबोधमेतत्पद्यम् ।
 
530
 
पानीयं पातुमिच्छामि त्वत्त: कमललोचने ।
 
यदि दास्यसि नेच्छामि नो दास्यसि पिवाम्यहम् ॥ १७ ॥
 
कस्यापि ।