This page has been fully proofread once and needs a second look.

प्रहेलिकापह्नुतिकूटाख्यानम्
 
७९
 

अथवा व्याधजायायाः परिणीतः पूर्वपुरुषो मृतः स च विद्य-

मानः संगृहीतो द्वितीयः पुरुषः । तं च विलोक्य चिन्तितवती । यतो

निजकान्तवियोगासहिष्णुः शिरोदानायोद्यतकरा पतिभक्ता वरमियं

हरिणी । परिणीतप्रियमरणे जीविता संगृहीतभर्तृका चासती नाहं

मानुषीति लज्जिता । इति द्वितीयोर्थः ।
 

 
अथवा इति चिन्तितं तया । यतो येन कर्णेन गीतं श्रुतं तस्य

दातुः कर्णस्य पुरो यात्राच्ज्ञायै करो न प्रसारितो व्याधेन । नीरसक-
डि

ठि
नकुटिलशृङ्गस्य पुरः करः प्रसारितः । अनुचितं कृतं मूढेन ।

कृतेप्यनुचिते अकृतपात्रविचारो गीतरसज्ञः स्वभावकृपणं याचकं

जानन्मृगयूथ पतिर्निजशिरोदानायोद्यतंकरो जातः । अतो व्याधी तं

हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्खं ज्ञात्वा हरिणीं च तादृशीं

पतिभक्तां वीक्ष्य लज्जिता । इति तृतीयोर्थः ।
 

 
अथापह्नुतिः ॥
 

523
 

रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तल्कि

तत्किं
तरुणी नहि नहि वाणी बाणस्य मधुर शीलस्य ॥१९॥
 

524
 

सीत्कारं संजनयति व्रणयत्यधरं तनोति रोमाञ्चम् ।

नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः ॥ ११ ॥

धर्मदासस्यैतौ ।
 

525
 

वर्षति मेघे नितरामपतितया नैव शक्यते स्थातुम् ।
 

उत्कत्कण्डिठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ॥१२॥
 

कस्यापि ।
 

526
 

प्रहरति न पञ्चबाण: केवलमबले निमेषोपि ।
 

वर्षति परं न देवः क्षणदापि मृगाक्षि विप्रयोगे ते ॥ १३ ॥