This page has not been fully proofread.

प्रहेलिकापह्नुतिकूटाख्यानम्
 
७९
 
अथवा व्याधजायायाः परिणीतः पूर्वपुरुषो मृतः स च विद्य-
मानः संगृहीतो द्वितीयः पुरुषः । तं च विलोक्य चिन्तितवती । यतो
निजकान्तवियोगासहिष्णुः शिरोदानायोद्यतकरा पतिभक्ता वरमियं
हरिणी । परिणीतप्रियमरणे जीविता संगृहीतभर्तृका चासती नाहं
मानुषीति लज्जिता । इति द्वितीयोर्थः ।
 
अथवा इति चिन्तितं तया । यतो येन कर्णेन गीतं श्रुतं तस्य
दातुः कर्णस्य पुरो यात्रायै करो न प्रसारितो व्याधेन । नीरसक-
डिनकुटिलशृङ्गस्य पुरः करः प्रसारितः । अनुचितं कृतं मूढेन ।
कृतेप्यनुचिते अकृतपात्रविचारो गीतरसज्ञः स्वभावकृपणं याचकं
जानन्मृगयूथ पतिर्निजशिरोदानायोद्यतंकरो जातः । अतो व्याधी तं
हरिणं चतुरं ज्ञात्वा तं च व्याधं मूर्ख ज्ञात्वा हरिणीं च तादृशीं
पतिभक्तां वीक्ष्य लज्जिता । इति तृतीयोर्थः ।
 
अथापह्नुतिः ॥
 
523
 
रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तल्कि तरुणी नहि नहि वाणी बाणस्य मधुर शीलस्य ॥१९॥
 
524
 
सीत्कार संजनयति व्रणयत्यधरं तनोति रोमाञ्चम् ।
नागरिकः किमु मिलितो नहि नहि सखि हैमनः पवनः ॥ ११ ॥
धर्मदासस्यैतौ ।
 
525
 
वर्षति मेघे नितरामपतितया नैव शक्यते स्थातुम् ।
 
उत्कण्डितासि तरले नहि नहि सखि पिच्छिलः पन्थाः ॥१२॥
 
कस्यापि ।
 
526
 
प्रहरति न पञ्चबाण: केवलमबले निमेषोपि ।
 
वर्षति परं न देवः क्षणदापि मृगाक्षि विप्रयोगे ते ॥ १३ ॥