This page has been fully proofread once and needs a second look.

७८
 
शार्ङ्गधरपद्धतिः
 

520
 

तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।

गुरूणां संनिधानेपि कः कृकूजति मुहुर्मुहुः ॥ ७ ॥

अत्र कलश: प्रकटीकृतः ।
 

521
 

अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।

निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी ॥ ८ ॥

धर्मदासस्यैतौ ।
 

रस्त्री पुत्रजायायाः स्तनौ गुञ्जाफलालंकृतौ दृष्ट्वा कुतो निःश्व-

स्य रुरोद । यतो मत्पुत्र एतस्यामनुरक्तस्तथा क्षीणतां गतो यथा गजा-

न्विनिहत्य गजमुक्ताफलहारैः स्तनौ विभूषयितुं नालम् । अतो निष्प्र-
यासं

यास
ग्राद्ह्यैर्गुञ्जा फलैर्विभूषयति । पुत्रे च क्षीणे सति तदर्जितनिर्वाह-

वृत्ते: सर्वस्यापि कुटुम्बस्य जीवितसंदेहः । अतो व्याधकुटुम्बिनी

दुःखान्निःश्वस्य रोदितुं लग्ना । इति प्रकटीकृतोयमर्थः ।
 

522
 

गीत्वा किमपि व्याधः शृङ्गं जग्राह तरुणहरिणस्य ।
तमय

तमथ
समीक्ष्योद्यतकरमेणीमपि लज्जिता व्याधी । ९ ॥

शार्ङ्गधरस्य ।
 

अस्यार्थः । व्याधः किमप्यद्भुतं गीत्वा गीतमूर्छना विलीनचित्तस्य

तरुणहरिणस्य शृङ्गं जग्राह । किमर्थं जग्राह यतो मद्गीतमुसुखित-

स्त्वं याचकस्य मे इदं शिरोदानं देहि । अथ तं हरिणं शिरोदाना-

योद्यतकरं समीक्ष्य तज्ज्ञाजायां हरिणीं पत्युर्भक्त्या निजशिरोदानायो-

द्यतकरांत्र समीक्ष्य व्याधसार्थचारिणी व्याधी लज्जिता । केन हे-

तुना लज्जिता यतोयं हरिणो दाता इयं च हरिणी पतिभक्ता दातुर्जा-

या मत्कान्तो याचकः अहं च याचकजाया वरमेते पशवो न वयं

मनुष्या इति लज्जिता । अयं प्रथमोर्थः ।