This page has not been fully proofread.

७८
 
शार्ङ्गधरपद्धतिः
 
520
 
तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।
गुरूणां संनिधानेपि कः कृजति मुहुर्मुहुः ॥ ७ ॥
अत्र कलश: प्रकटीकृतः ।
 
521
 
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ ।
निःश्वस्य रोदितुं लना कुतो व्याधकुटुम्बिनी ॥ ८ ॥
धर्मदासस्यैतौ ।
 
शवरस्त्री पुत्रजायायाः स्तनौ गुञ्जाफलालंकृतौ दृष्ट्वा कुतो निःश्व-
स्य रुरोद । यतो मत्पुत्र एतस्यामनुरक्तस्तथा क्षीणतां गतो यथा गजा-
न्विनिहत्य गजमुक्ताफलहारैः स्तनौ विभूषयितुं नालम् । अतो निष्प्र-
यासंग्राद्यैर्गुञ्जा फलैर्विभूषयति । पुत्रे च क्षीणे सति तदर्जितनिर्वाह-
वृत्ते: सर्वस्यापि कुटुम्बस्य जीवितसंदेहः । अतो व्याधकुटुम्बिनी
दुःखान्निःश्वस्य रोदितुं लग्ना । इति प्रकटीकृतोयमर्थः ।
 
522
 
गीत्वा किमपि व्याधः शृङ्गं जग्राह तरुणहरिणस्य ।
तमय समीक्ष्योद्यतकरमेणीमपि लज्जिता व्याधी । ९ ॥
शार्ङ्गधरस्य ।
 
अस्यार्थः । व्याधः किमप्यद्भुतं गीत्वा गीतमूर्छना विलीनचित्तस्य
तरुणहरिणस्य शृङ्गं जग्राह । किमर्थ जग्राह यतो मद्गीतमुखित-
स्त्वं याचकस्य मे इदं शिरोदानं देहि । अथ तं हरिणं शिरोदाना-
योद्यतकरं समीक्ष्य तज्ज्ञायां हरिणीं पत्युर्भक्त्या निजशिरोदानायो-
द्यतकरांत्र समीक्ष्य व्याधसार्थचारिणी व्याधी लज्जिता । केन हे-
तुना लज्जिता यतोयं हरिणो दाता इयं च हरिणी पतिभक्ता दातुर्जा-
या मत्कान्तो याचकः अहं च याचकजाया वरमेते पशवो न वयं
मनुष्या इति लज्जिता । अयं प्रथमोर्थः ।