This page has been fully proofread once and needs a second look.

प्रहेलिकापह्नुतिकूटाख्यानम्
 

516
 

गोपालो न च गोपालस्त्रिशूली न च शंकरः ।

चक्रपाणिः स नो विष्णुर्यो जानाति स पण्डितः ॥ ३ ॥
 

कस्यापि ।
 

अत्र महोक्षः प्रकटीकृतः ।
 

517
 

उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् ।

काकविष्ठासमुत्पन्नाः पञ्चैतेतिपवित्रकाः ॥ ४ ॥
 

उच्छिष्टं दुग्धम् । शिवनिर्माल्यं गङ्गा । वमनं मधु । शवकर्पटं

पट्टाम्बरम् । काकविष्ठासमुद्भूताः पिप्पलादय इति प्रकटीकृताः ।
 

518
 

विजितात्मभवद्वेषिगुरुपादहतो जनः ।

हिमापहामित्र धरैर्व्याप्तं व्योमाभिनन्दति ॥ ५ ।
 
७७
 

दण्डिनः ।
 
बि

वि
ना गरुडेन जित इन्द्रः । तदात्मभवोर्जुनः । तद्वेषी कर्णः ।

तद्गुरुः सूर्यः । तत्पादहतस्तत्किरणसंतप्तः । हिमापहार्थिःग्निः । तदभिक्षं
मित्रं
पानीयम् । तद्धरा मेघाः । इति प्रकटीकृतम् ।
 

519
 

काचिन्मृगाक्षी प्रियविप्रयोगे

गन्तुं निशापारमपारयन्ती ।

उद्गातुमादाय करेण वीणां

मृगाङ्कमालोक्य शनैरहासीत् ॥ ६ ॥
 

कस्यापि ।
 

वीणां किमर्थमहासीत् यतोयं गीतप्रियो मृगाङ्कमृगो मत्प्रयुक्तं

गीतमाकर्णयितुं ततवेश्चेदवतरति तदा चन्द्रो निष्कलङ्क: स्यात् ।

मन्मुखसाम्यं च लभेत । प्रियविप्रयोगे संतापकरो मे हिमांशुः ।

अतोस्य शत्रोश्चन्द्रमसो मन्मुखसाम्यं मा भूदिति वीणामहासीत् ।
इाते

इति
प्रकटितोर्थः ।