This page has not been fully proofread.

प्रहेलिकापह्नुतिकूटाख्यानम्
 
516
 
गोपालो न च गोपालस्त्रिशूली न च शंकरः ।
चक्रपाणिः स नो विष्णुर्यो जानाति स पण्डितः ॥ ३ ॥
 
कस्यापि ।
 
अत्र महोक्षः प्रकटीकृतः ।
 
517
 
उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम् ।
काकविष्ठासमुत्पन्नाः पञ्चैतेतिपवित्रकाः ॥ ४ ॥
 
उच्छिष्टं दुग्धम् । शिवनिर्माल्यं गङ्गा । वमनं मधु । शवकर्पटं
पट्टाम्बरम् । काकविष्ठासमुद्भूताः पिप्पलादय इति प्रकटीकृताः ।
 
518
 
विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्र धरैर्व्याप्तं व्योमाभिनन्दति ॥ ५ ।
 
७७
 
दण्डिनः ।
 
बिना गरुडेन जित इन्द्रः । तदात्मभवोर्जुनः । तद्वेषी कर्णः ।
तद्गुरुः सूर्यः । तत्पादहतस्तत्किरणसंतप्तः । हिमापहार्थिः । तदभिक्षं
पानीयम् । तद्धरा मेघाः । इति प्रकटीकृतम् ।
 
519
 
काचिन्मृगाक्षी प्रियविप्रयोगे
गन्तुं निशापारमपारयन्ती ।
उद्गातुमादाय करेण वीणां
मृगाङ्कमालोक्य शनैरहासीत् ॥ ६ ॥
 
कस्यापि ।
 
वीणां किमर्थमहासीत् यतोयं गीतप्रियो मृगाङ्कसगो मत्प्रयुक्तं
गीतमाकर्णयितुं ततवेदवतरति तदा चन्द्रो निष्कलङ्क: स्यात् ।
मन्मुखसाम्यं च लभेत । प्रियविप्रयोगे संतापकरो मे हिमांशुः ।
अतोस्य शत्रोश्चन्द्रमसो मन्मुखसाम्यं मा भूदिति वीणामहासीत् ।
इाते प्रकटितोर्थः ।