This page has been fully proofread once and needs a second look.

७६
 
शार्ङ्गधरपद्धतिः
 

511
 

सुरताय नमस्तस्मै जगदानन्दहेतवे ।
 

आनुषङ्गि फलं यस्य भोजराज भवादृशाः ॥ १८ ॥

रस्वतीकुटुम्बदुहितुः ।
 

सुरताय नमस्तस्मै जगदानन्दहेतव इति पादद्वयं समस्या ।
 

512
 

अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।
 

ये वियोगेपि जीवन्ति न तेषां विद्यते भयम् ॥ १९ ॥
 
मे

मा
घस्य ।
 

अतसीपुष्पसंकाशं न तेषां विद्यते भयामेयमिति पादद्वयं समस्या ।
 

513
 

मम करग्रहणाय पणीकृतं
 

यदि न राघवतोप्यधिरोहति ।

सखि तदैवमभून्मम जीवितं
 

शशकशृङ्गमयं कठिनं धनुः ॥ २० ॥
 

कस्यापि ।
शशकशृङ्गमयं कटिठिनं धनुरिति पादैकं समस्या ।
 
कस्यापि ।
 

-------------
अथ प्रहेलिकापह्नुतिकूटाख्यानम् ॥ ३३ ॥
 

514
 

अपदो दूरगामी च साक्षरो न च पण्डितः ।
 

अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १ ॥
 

कस्यापि ।
 

अत्र लेखपत्रं प्रकटीकृतम् ।
 

515
 

वने जाता वनं त्यक्त्वा वने तिष्ठति नित्यशः ।
 

पण्यस्त्री न च सा वेश्या यो जानाति स पण्डितः ॥ २ ॥
 

कस्यापि ।
 

अत्र नौका प्रकटीकृता नागवल्ली च ।