This page has not been fully proofread.

७६
 
शार्ङ्गधरपद्धतिः
 
511
 
सुरताय नमस्तस्मै जगदानन्दहेतवे ।
 
आनुषङ्गि फलं यस्य भोजराज भवादृशाः ॥ १८ ॥
उरस्वतीकुटुम्बदुहितुः ।
 
सुरताय नमस्तस्मै जगदानन्दहेतव इति पादवयं समस्या ।
 
512
 
अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।
 
ये वियोगेपि जीवन्ति न तेषां विद्यते भयम् ॥ १९ ॥
 
मेघस्य ।
 
अतसीपुष्पसंकाशं न तेषां विद्यते भयामेति पादइयं समस्या ।
 
513
 
मम करग्रहणाय पणीकृतं
 
यदि न राघवतोप्यधिरोहति ।
सखि तदैवमभून्मम जीवितं
 
शशकशृङ्गमयं कठिनं धनुः ॥ २० ॥
 
शशकशृङ्गमयं कटिनं धनुरिति पादैकं समस्या ।
 
कस्यापि ।
 
अथ प्रहेलिकापह्नुतिकूटाख्यानम् ॥ ३३ ॥
 
514
 
अपदो दूरगामी च साक्षरो न च पण्डितः ।
 
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ १ ॥
 
कस्यापि ।
 
अत्र लेखपत्रं प्रकटीकृतम् ।
 
515
 
वने जाता वनं त्यक्त्वा वने तिष्ठति नित्यशः ।
 
पण्यस्त्री न च सा वेश्या यो जानाति स पण्डितः ॥ २ ॥
 
कस्यापि ।
 
अत्र नौका प्रकटीकृता नागवली च ।