This page has been fully proofread once and needs a second look.

समस्याख्यानम्
 

 
मत्वैवं महराजदेव नृपते त्वज्जैत्रयात्रोत्सवे
 

मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ॥१३॥

श्रीआनन्ददेवानाम् ।
 

मत्सी रोदिति मक्षिका च सति ध्यायन्ति वैरिस्त्रिय इति

पादैकं समस्या ।
 

507
 

स्फुरिते जठरे विष्णोर्नवनीतभुजः शिशोः ।
मक्षिका पादघातेन कम्पितं भुवनत्रयम् ॥ १४
शार्ङ्गधरस्य ।
 

मक्षिकापादघातेन कम्पितं भुवनत्रयम् ॥ १४
शार्ङ्गधरस्य ।
मक्षिकापादघातेन कम्पितं भुवनत्रय
मिति पादद्वयं समस्या ।
 

508
 

रामाभिषेके मदविह्वलायाः
 

करच्युतो हेमघटस्तरुण्याः ।

सोपानमासाद्य करोति शब्
 
दं
ठं ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १५ ।
 

कस्यापि ।
 

ठंठमिति चरमपाद: समस्या ।
 

509
 

उन्नमय्य सकचग्रहमास्यं
 

चुम्बति प्रियतमे हठवृत्त्या ।
 

हुं हु हुं हु हु हु हुं हु हु हुं हुं
कुजितं भवति मानधनायाः ॥ १६ ॥
 

विज्कायाः ।
 
७५
 

हुं हुं हुं हु इति पादैकं समस्या ।
 

510
 

प्रलयसहायकनवती गोलानाचम्य सकलभूमिरुहाम् ।
 

विलसति दवदहनावलिरिह जलवाहः परं शरणम् ॥ १७ ॥

मुरारेः ।
 

सहायकनवती गोलानाचम्येति पादैकं समस्या ।