This page has not been fully proofread.

समस्याख्यानम्
 
मत्वैवं महराजदेव नृपते त्वज्जैत्रयात्रोत्सवे
 
मत्सी रोदिति मक्षिका च हसति ध्यायन्ति वैरिस्त्रियः ॥१३॥
श्रीआनन्ददेवानाम् ।
 
मत्सी रोदिति मक्षिका च इसति ध्यायन्ति वैरिस्त्रिय इति
पादैकं समस्या ।
 
507
 
स्फुरिते जठरे विष्णोर्नवनीतभुजः शिशोः ।
मक्षिका पादघातेन कम्पितं भुवनत्रयम् ॥ १४
शार्ङ्गधरस्य ।
 
मक्षिकापादघातेन कम्पितं भुवनत्रयमिति पादद्वयं समस्या ।
 
508
 
रामाभिषेके मदविह्वलायाः
 
करच्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्द
 
ठं ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १५ ।
 
कस्यापि ।
 
ठंठमिति चरमपाद: समस्या ।
 
509
 
उन्नमय्य सकचग्रहमास्यं
 
चुम्बति प्रियतमे हठवृत्त्या ।
 
कुजितं भवति मानधनायाः ॥ १६ ॥
 
विज्ञकायाः ।
 
७५
 
हुं हुं हुं हु इति पादैकं समस्या ।
 
510
 
प्रलयसहायकनवती गोलानाचम्य सकलभूमिरुहाम् ।
 
विलसति दवदहनावलिरिह जलवाहः परं शरणम् ॥ १७ ॥
मुरारेः ।
 
सहायकनवती गोलानाचम्येति पादैकं समस्या ।