This page has been fully proofread once and needs a second look.

७२
 
शार्ङ्गधरपद्धतिः
 

गगनं भ्रमरायत इति पादैकं समस्या ।
 

502
 

यत्कण्ठे गरलं विराजतितरां शीर्षे च मन्दाकिनी

वामाङ्गे गिरिजामुखं कटितटे शार्दूलचर्माम्बरम् ।

माया यस्य भवं रुणद्धि सकलं तस्मै नमः शंभवे
 

जम्बूवज्जलविबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९ ॥
 

कस्यापि ।
 

जम्बूव ज्जल विबिन्दुवज्जल जवज्जम्वाल बालवज्जालवदिति पादैकं समस्या ।
 

503
 

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा

निरालम्बो मार्गश्चरणरहितः सारथिरपि ।

रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः
 

क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ॥ १० ॥
 

कस्यापि ।
 

क्रियासिद्धिः सत्त्वे वसति महतां नोपकरण इति पादैकं समस्या ।
 

504
 

विजेतव्या लङ्का चरणतरणीयो जलनिधि-

र्
विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपयः ।

तथाप्येको रामः सकलमवधीद्राक्षसकुलं

क्रियासिद्धि:सत्त्वे वसति महतां नोपकरणे ॥ ११ ॥
 

कस्यापि ।
 

505
 

घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो
 

ने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् ।

तथाप्येकोगस्त्यः सकलमपिवद्वारिधिजलं

क्रियासिद्धिः सच्चेत्त्वे वसति महतां नोपकरणे ॥ १२ ॥
 

कस्यापि ।
 

506
 

अस्माकं जलजीविनां जलमिदं सहाद्वाजिराजिव्रजैः

पातव्यं पररक्तरक्तमनसां तृति:प्तिः पतीनां क्षयः ।