This page has not been fully proofread.

७२
 
शार्ङ्गधरपद्धतिः
 
गगनं भ्रमरायत इति पादैकं समस्या ।
 
502
 
यत्कण्ठे गरलं विराजतितरां शीर्षे च मन्दाकिनी
वामाङ्गे गिरिजामुखं कटितटे शार्दूलचर्माम्बरम् ।
माया यस्य भवं रुणद्धि सकलं तस्मै नमः शंभवे
 
जम्बूवज्जलविन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ ९ ॥
 
कस्यापि ।
 
जम्बूव ज्जल विन्दुवज्जल जवज्जम्वाल वज्जालवदिति पादैकं समस्या ।
 
503
 
रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा
निरालम्बो मार्गश्चरणरहितः सारथिरपि ।
रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः
 
क्रियासिद्धिः सत्वे वसति महतां नोपकरणे ॥ १० ॥
 
कस्यापि ।
 
क्रियासिद्धिः सत्वे वसति महतां नोपकरण इति पादैकं समस्या ।
 
504
 
विजेतव्या लङ्का चरणतरणीयो जलनिधि-
विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपयः ।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं
क्रियासिद्धि:सत्त्वे वसति महतां नोपकरणे ॥ ११ ॥
 
कस्यापि ।
 
505
 
घटो जन्मस्थानं मृगपरिजनो भूर्जवसनो
 
बने वासः कन्दाशनमपि च दुःस्थं वपुरिदम् ।
तथाप्येकोगस्त्यः सकलमपिवद्वारिधिजलं
क्रियासिद्धिः सच्चे वसति महतां नोपकरणे ॥ १२ ॥
 
कस्यापि ।
 
506
 
अस्माकं जलजीविनां जलमिदं सहाजिराजिवजैः
पातव्यं पररक्तरक्तमनसां तृति: पतीनां क्षयः ।