This page has been fully proofread once and needs a second look.

समस्याख्यानम
 

कामं कामदुधे धुक्ष्व मित्राय वरुणाय च । सर्वान्कामानशीम-

हि इति पादत्रयं समस्या ।
 

496
 

असमाने समानत्वं भविता कलहे मम ।
 

इति मत्त्वा ध्रुवं मानी मृगात्सिंह: पलायते ॥ ३ ॥
 

कस्यापि ।
 

मृगात्सिंह: पलायत इति पादैकं समस्या ।
 

497
 

विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति ।

तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥ ४ ॥
 

कस्यापि ।
 

सलिलादग्निरुत्थित इति पादैकं समस्या ।
 

498
 

दामोदरकराघातविह्वलीकृतचेतसा ।
 

दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ५ ॥
 

बाणस्य ।
 

शतचन्द्रं नभस्तलमिति पादेदैकं समस्या ।
 
10
 

499
 

विधे पिधेहि शीतांशुं यावदायाति मे पतिः ।

आयाते दयिते कुर्याः शतचन्द्रं नस्तलम् ॥ ६ ॥
 

कस्यापि ।
 

500
 

भीष्मग्रीष्मर्तुसंतापशून्यरथ्यान्तरस्थयोः ।
 

अन्योन्याला पसुखिनोर्यूनोश्चन्द्रायते रविः ॥ ७ ॥
 

कस्यापि ।
 

यूनोश्चन्द्रायते रविरिति पाँपादैकं समस्या ।
 

501
 

स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे ।
 

यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ८ ॥
 

कस्यापि ।