This page has not been fully proofread.

समस्याख्यानम
 
कामं कामदुधे धुव मित्राय वरुणाय च । सर्वान्कामानशीम-
हि इति पादत्रयं समस्या ।
 
496
 
असमाने समानत्वं भविता कलहे मम ।
 
इति मत्वा ध्रुवं मानी मृगात्सिंह: पलायते ॥ ३ ॥
 
कस्यापि ।
 
मृगात्सिंह: पलायत इति पादैकं समस्या ।
 
497
 
विद्यायां दुर्मदो येषां कार्पण्यं विभवे सति ।
तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥ ४ ॥
 
कस्यापि ।
 
सलिलादग्निरुत्थित इति पाकं समस्या ।
 
498
 
दामोदरकराघातविह्वलीकृतचेतसा ।
 
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ५ ॥
 
बाणस्य ।
 
शतचन्द्रं नभस्तलमिति पादेकं समस्या ।
 
10
 
499
 
विधे पिधेहि शीतांशुं यावदायाति मे पतिः ।
आयाते दयिते कुर्याः शतचन्द्रं नमस्तलम् ॥ ६ ॥
 
कस्यापि ।
 
500
 
भीष्मग्रीष्मर्तुसंतापशून्यरथ्यान्तरस्थयोः ।
 
अन्योन्याला पसुखिनोर्यूनोश्चन्द्रायते रविः ॥ ७ ॥
 
कस्यापि ।
 
यूनोश्चन्द्रायते रविरिति पाँदैकं समस्या ।
 
501
 
स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे ।
 
यद्यशः पुण्डरीकान्तर्गगनं भ्रमरायते ॥ ८ ॥
 
कस्यापि ।