This page has been fully proofread once and needs a second look.

७२
 
शार्ङ्गधरपद्धतिः
 

488
 

वनानि दहतो वह्नेः सखा भवति मारुतः ।

स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २६ ॥
 

489
 

गतः स कालो यत्रासीदवज्ञा कल्पशाखिनाम् ।

उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ २७ ॥
 

490
 

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।

विभवो दानशक्तिच नाल्पस्य तपसः फलम् ॥ २८ ॥
 

491
 

व्यथयतितरामुपेतः स्वच्छप्रकृतीनवद्यलेशोपि ।

भृशमुद्दिविजते चक्षुः सक्तेन रजःकणेनापि ॥ २९ ॥
 

492
 

रादेरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।

जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ ३० ॥
 

493
 

वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।

सिंहात्पादप्रहारोपि न सृगालाधिरोहणम् ॥ ३१ ॥

केषामप्येते !
 

-------------
अथ समस्याख्यानम् ॥ ३२ ॥
 

494
 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

दलितश्चकितश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥
 

कस्यापि ।
 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पादद्वयं समस्या ।
 

495
 

कामं कामदुधे धुक्ष्व मित्राय वरुणाय च ।

वयं वीरेश दानेन सर्वान्कामानशीमहि ॥ २ ॥
 

कस्यापि ।