2023-02-25 06:19:12 by ambuda-bot
This page has not been fully proofread.
७२
शार्ङ्गधरपद्धतिः
488
वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २६ ॥
489
गतः स कालो यत्रासीदवज्ञा कल्पशाखिनाम् ।
उदुम्बरफलेभ्योपि स्पृहयामोधुना वयम् ॥ २७ ॥
490
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।
विभवो दानशक्तिच नाल्पस्य तपसः फलम् ॥ २८ ॥
491
व्यथयतितरामुपेतः स्वच्छप्रकृतीनवद्यलेशोपि ।
भृशमुद्दिजते चक्षुः सक्तेन रजःकणेनापि ॥ २९ ॥
492
शरादे समग्रनिशाकरकरशतहततिमिरसंचया रजनी ।
जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ ३० ॥
493
वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् ।
सिंहात्पादमहारोपि न सृगालाधिरोहणम् ॥ ३१ ॥
केषामप्येते !
अथ समस्याख्यानम् ॥ ३२ ॥
494
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
दलितश्चकितश्छन्नस्तव सैन्ये विसर्पति ॥ १ ॥
कस्यापि ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पादद्वयं समस्या ।
495
कामं कामदुधे धुक्ष्व मित्राय वरुणाय च ।
वयं वीरेश दानेन सर्वान्कामानशीमहि ॥ २ ॥