This page has been fully proofread once and needs a second look.

प्रकीर्णकाख्यानम्
 

478
 

अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति ।

स भवति सद्यो वन्द्यः सर्प इव सर्वलोकस्य ॥ १६ ॥
 

479
 

किमाद्यत्वगुरुत्वाभ्यां चरमोपि गुणैर्गुरुः ।

केतकी कुसुमे पश्य लघुपत्रेपि गौरवम् ॥ १७ ॥
 

480
 

पतितोपि राहुवदने तरणिर्बोधयति पद्मखण्डानि ।

भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः ॥ १८ ॥
 

481
 

निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
 

न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥ १९ ॥
 

482
 

स एव धन्यो विपदि स्वरूपं यो न मुञ्चति ।

त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ २० ॥
 

483
 

मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि ।

तत्रैकः शुक्लपक्षोभूद्यशः पुण्यैरवाप्यते ॥ २१ ॥
 
484
 

484
सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि ।
पशि

षट्त्रिंश
दायुधा पृथ्वी खड्डागायत्तैव कथ्यते ॥ २२ ॥
 

485
 

हस्तादपि न दातव्यं गृहादपि न दीयते ।

परोपकरणार्थाय वचनेपि दरिद्रता ॥ २३ ॥
 

486
 

पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।
 

प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ २४ ॥
 
७१
 

487
 

पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
 

पदच्युतस्य तस्यैव केक्लेददाहकरावुभौ ॥ २५ ॥