This page has not been fully proofread.

प्रकीर्णकाख्यानम्
 
478
 
अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति ।
स भवति सद्यो वन्द्यः सर्पप इव सर्वलोकस्य ॥ १६ ॥
 
479
 
किमाद्यत्वगुरुत्वाभ्यां चरमोपि गुणैर्गुरुः ।
केतकी कुसुमे पश्य लघुपत्रेपि गौरवम् ॥ १७ ॥
 
480
 
पतितोपि राहुवदने तरणिर्बोधयति पद्मखण्डानि ।
भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः ॥ १८ ॥
 
481
 
निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
 
न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥ १९ ॥
 
482
 
स एव धन्यो विपदि स्वरूपं यो न मुञ्चति ।
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम् ॥ २० ॥
 
483
 
मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि ।
तत्रैकः शुक्लपक्षोभूद्यशः पुण्यैरवाप्यते ॥ २१ ॥
 
484
 
सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि ।
पशिदायुधा पृथ्वी खड्डायत्तैव कथ्यते ॥ २२ ॥
 
485
 
हस्तादपि न दातव्यं गृहादपि न दीयते ।
परोपकरणार्थाय वचनेपि दरिद्रता ॥ २३ ॥
 
486
 
पातितोपि कराघातैरुत्पतत्येव कन्दुकः ।
 
प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ २४ ॥
 
७१
 
487
 
पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
 
पदच्युतस्य तस्यैव केददाहकरावुभौ ॥ २५ ॥