This page has been fully proofread once and needs a second look.

७०
 
शार्ङ्गधरपद्धतिः
 

 
469
 

दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ।

पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥ ७ ॥
 

470
 

अशठमलोलमजिझंह्मं त्यागिनमनुरागिणं विशेषज्ञम् ।

यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ८ ॥
 

471
 

या स्वसद्मनि पद्मेपि संध्यावधि विजृम्भते ।

इन्दिरा मन्दिरेन्येषां कथं तिष्ठति सा चिरम् ॥ ९ ॥
 

472
 

रक्षन्ति कृपणाः पाणीणौ द्रव्यं कव्यमिवात्मनः ।

तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ १० ॥
 

473
 

द्विद्या यदि का चिन्ता वराकोदरपूरणे ।

शुकोप्यशनमामोप्नोति राम रामेति च ब्रुवन् ॥ ११ ॥
 
474
 

474
ददतो युद्ध्यमानस्य पठतः पुलको न चेत् ।

आत्मनश्च परेषां च धिक्त्यागं पौरुषं वचः ॥ १२ ॥
 

475
 

न तद्भुक्तं न तत्पीतं न तत्सुप्तं न तद्गतम् ।

यन्मांसमाहिक्षीरललनावाजिवर्जितम् ॥ १३ ॥
 

476
 

दुर्जनदूषितमनसां पुपुंसां सुजनेपि नास्ति विश्वासः ।

बाल: पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १४ ॥
 
477
 

477
करोति निर्मलाधारस्तुच्छस्यापि महार्घताम् ॥

अम्बुनो विन्दुरल्पोपि शुक्तौ मुक्ताफलं भवेत् ॥ १५ ।