This page has not been fully proofread.

७०
 
शार्ङ्गधरपद्धतिः
 
469
 
दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ।
पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये ॥ ७ ॥
 
470
 
अशठमलोलमजिझं त्यागिनमनुरागिणं विशेषज्ञम् ।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ८ ॥
 
471
 
या स्वसद्मनि पद्मपि संध्यावधि विजृम्भते ।
इन्दिरा मन्दिरेन्येषां कथं तिष्ठति सा चिरम् ॥ ९ ॥
 
472
 
रक्षन्ति कृपणाः पाणी द्रव्यं कव्यमिवात्मनः ।
तदेव सन्तः सततमुत्सृजन्ति यथा मलम् ॥ १० ॥
 
473
 
सविद्या यदि का चिन्ता वराकोदरपूरणे ।
शुकोप्यशनमामोति राम रामेति च ब्रुवन् ॥ ११ ॥
 
474
 
ददतो युद्धयमानस्य पठतः पुलको न चेत् ।
आत्मनश्च परेषां च धिक्त्यागं पौरुषं वचः ॥ १२ ॥
 
475
 
न तद्भुक्तं न तत्पीतं न तत्सुप्तं न तद्गतम् ।
यन्मांसमाहिपक्षीरललनावाजिवर्जितम् ॥ १३ ॥
 
476
 
दुर्जनदूषितमनसां पुसां सुजनेपि नास्ति विश्वासः ।
बाल: पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥ १४ ॥
 
477
 
करोति निर्मलाधारस्तुच्छस्यापि महार्घताम् ॥
अम्बुनो विन्दुरल्पोपि शुक्तौ मुक्ताफलं भवेत् ॥ १५ ।