2023-04-14 06:29:59 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
अथ प्रकीर्णकाख्यानम्
अथ प्रकीर्णकाख्यानम्
463
दानाय लक्ष्मीः सुकृताय विद्या
चिन्ता परब्रह्मविनिश्चयाय ।
परोपकाराय वचांसि यस्य
वन्द्यस्त्रिलोकीतिलकः स एकः ॥ १ ॥
464
श्रीदेवगणदेवानाम् ।
464
निष्कलङ्ककलयैकयापि यः
सयुतः स खलु पूज्यते जनैः ।
भद्र पश्य जलजोपि धार्यते
शंकरेण शिरसा निशाकरः ॥ २ ॥
शार्ङ्गधरस्य ।
465
एके सत्पुरुषाः परार्थघटका: स्वार्थ परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेमी मानुषराक्षसाः परहितं स्वार्थाय नि
ये तु
भर्तृहरेः ।
466
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोगुरुभवो धूपः ॥ ४ ॥
गोवर्धनाचार्यस्य ।
467
अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ५ ॥
468
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोप्यर्थं न मुञ्चति ॥ ६ ॥
एतौ व्यासस्य ।