This page has not been fully proofread.

प्रकीर्णकाख्यानम्
 
अथ प्रकीर्णकाख्यानम् ॥ ३१ ॥
 
463
 
दानाय लक्ष्मीः सुकृताय विद्या
चिन्ता परब्रह्मविनिश्चयाय ।
 
परोपकाराय वचांसि यस्य
वन्यस्त्रिलोकीतिलकः स एकः ॥ १ ॥
 
464
 
श्रीदेवगणदेवानाम् ।
 
निष्कलङ्ककलयैकयापि यः
 
सयुतः स खलु पूज्यते जनैः ।
भद्र पश्य जलजोपि धार्यते
 
शंकरेण शिरसा निशाकरः ॥ २ ॥
शार्ङ्गधरस्य ।
 
465
 
एके सत्पुरुषाः परार्थघटका: स्वार्थ परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेमी मानुषराक्षसाः परहितं स्वार्थाय निम्नन्ति ये
ये तु प्रन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ३ ॥
 
भर्तृहरेः ।
 
466
 
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।
इतरेन्धनजन्मा यो धूमः सोगुरुभवो धूपः ॥ ४ ॥
 
गोवर्धनाचार्यस्य ।
 
467
 
अहो बत महत्कष्टं विपरीतमिदं जगत् ।
येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ५ ॥
 
468
 
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति ।
दातारं कृपणं मन्ये मृतोप्यर्थं न मुञ्चति ॥ ६ ॥
एतौ व्यासस्य ।