This page has been fully proofread once and needs a second look.

६८
 
शार्ङ्गधरपद्धतिः
 

455
 

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-

दैवं हि दैवमिति कापुरुषा वदन्ति ।

दैवं निहत्य कुरु पौरुषमात्मशक्त्या
 

यत्ने कृते यदि न सिद्ध्यति कोत्र दोषः ॥ २ ॥

कृष्णमिश्रस्य ।
 

456
 

विहाय पौरुषं यो हि दैवमेवावलम्बते ।

प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ ३ ॥
 

457
 

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।

नहि लुसुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ४ ॥
 

458
 

पूर्वजन्मजनितं पुराविदः

कर्म दैवमिति संप्रचक्षते ।

उद्यमेन तदुपार्जितं चिरा-

द्
दैवमद्यमवशं न तत्कथम् ॥ ५ ॥
 

459
 

दैवं पुरुषकारेण साध्यसिद्धिनिन्धनम् ।

योतिक्रमितुमिच्छेत स लोके नावसीदति ॥ ६ ॥
 

460
 

कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते ।

तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥ ७ ॥
 

केषामध्प्येते ।
 

461
 

संपदा सुस्थिनंमन्यो भवति स्वल्पयापि यः ।

कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ८ ॥
 

462
 

असंपादयतः कंचिदर्थं जातिक्रियागुणैः ।

यवृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ९ ॥
 

एतौ माकवेः ।