This page has not been fully proofread.

६८
 
शार्ङ्गधरपद्धतिः
 
455
 
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
दैवं हि दैवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशतया
 
यत्ने कृते यदि न सिद्धयति कोत्र दोषः ॥ २ ॥
कृष्णमिश्रस्य ।
 
456
 
विहाय पौरुप यो हि दैवमेवावलम्बते ।
प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ ३ ॥
 
457
 
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः ।
नहि लुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ ४ ॥
 
458
 
पूर्वजन्मजनितं पुराविदः
कर्म दैवमिति संप्रचक्षते ।
उद्यमेन तदुपार्जितं चिरा-
दैवमद्यमवशं न तत्कथम् ॥ ५ ॥
 
459
 
दैवं पुरुषकारेण साध्यसिद्धिनिवन्धनम् ।
योतिक्रमितुमिच्छेत स लोके नावसीदति ॥ ६ ॥
 
460
 
कामपि श्रियमासाद्य यस्तद्वृद्धौ न चेष्टते ।
तस्यायतिषु न श्रेयो बीजभोजिकुटुम्बवत् ॥ ७ ॥
 
केषामध्येते ।
 
461
 
संपदा सुस्थिनंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ॥ ८ ॥
 
462
 
असंपादयतः कचिदर्थं जातिक्रियागुणैः ।
यवृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ९ ॥
 
एतौ माधकवेः ।