This page has been fully proofread once and needs a second look.

अथोद्यमाख्यानम्
 

449
 

भगवन्तीतौ जगन्नेत्रे सूर्याचन्द्रमसावपि ।
 

पश्य गच्छत एवास्तं नियतिः केन लङ्कलंघ्यते ॥ १५ ॥
 

दण्
डिकवेः ।
 

450
 

प्रतिकूलतामुपगते हि विधौ

विफलत्वमेति बहुसाधनता ।

अवलम्बनाय दिनभर्तुरभू-

न्न पतिष्यतः करसहस्रमपि ॥ १६ ॥

माघकवेः ।
 

451
 

प्रियसखि विपद्दण्डप्रान्तप्रपातपरंपरा-

परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।
 

मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-

द्भ्र
मयति मनो नो जानीम: किमत्र करिष्यति ॥ १७ ॥

विज्जकायाः ।
 

452
 

किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः ।
 

दैवं यस्य छलान्वेषि करोति विफलाः क्रियाः ॥ १८ ॥
 

चाणक्यस्य ।
 

453
 

यन्मनोरथ शतैरगोचरं
 

न स्पृशन्ति कवयो गिरापि यत् ।

स्वप्वृत्तिरपि यत्र दुर्लभा
 

लीलयैव विदधाति ताद्वेविधिः ॥ १९ ॥

देवगणस्य ।
 

--------------
अथोद्यमाख्यानम् ॥ ३० ॥
 

454
 

न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।

अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ १ ॥