This page has not been fully proofread.

अथोद्यमाख्यानम्
 
449
 
भगवन्ती जगन्नेत्रे सूर्याचन्द्रमसावपि ।
 
पश्य गच्छत एवास्तं नियतिः केन लङ्कयते ॥ १५ ॥
 
वडिकवेः ।
 
450
 
प्रतिकूलतामुपगते हि विधौ
विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभू-
न्न पतिष्यतः करसहस्रमपि ॥ १६ ॥
माघकवेः ।
 
451
 
प्रियसखि विपदण्डप्रान्तप्रपातपरंपरा-
परिचयचले चिन्ताचक्रे निधाय विधिः खलः ।
 
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
समयति मनो नो जानीम: किमत्र करिष्यति ॥ १७ ॥
विज्जकायाः ।
 
452
 
किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः ।
 
दैवं यस्य छलान्वेषि करोति विफलाः क्रियाः ॥ १८ ॥
 
चाणक्यस्य ।
 
453
 
यन्मनोरथ शतैरगोचरं
 
न स्पृशन्ति कवयो गिरापि यत् ।
स्वप्रवृत्तिरपि यत्र दुर्लभा
 
लीलयैव विदधाति ताद्वेधिः ॥ १९ ॥
देवगणस्य ।
 
अथोद्यमाख्यानम् ॥ ३० ॥
 
454
 
न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ १ ॥