This page has been fully proofread once and needs a second look.

६६
 
शार्ङ्गधरपद्धतिः
 

443
 

गजभुजंगविहंगमबन्धनं

शशिदिवाकरयोर्ग्रहपीडनम् ।
 

मतिमतां च विलोक्य दरिद्रतां

विधिरहो बलवानिति मे मतिः ॥ ९॥
 
444
 

444
न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः ।

सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ १० ॥
 

445
 

अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां

मेरुमृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीताम् ।

वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया

लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११ ॥
 

446
 

अरक्षित तिष्ठति देदैवरक्षितं

सुरक्षितं दैवहतं विनश्यति ।

जीवत्यनाथोपि वने विसर्जितः
 

कृतप्रयत्नोपि गृहे न जीवति ॥ १२ ॥
 

447
 

सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् ।

धिग्दैवं निर्मलं नेत्रं पात्रं कज्जलभस्मनः ॥ १३ ॥
 

448
 

दाता बलि: प्रार्थयिता च विष्णु-

र्दानं च भूर्वाजिमखस्य कालः ।

नमोस्तु तस्यै भवितव्य तायै
 

यस्याः फलं बन्धनमेव जातम् ॥ १४ ॥
 

केषामन्येते ।