This page has not been fully proofread.

६६
 
शार्ङ्गधरपद्धतिः
 
443
 
गजभुजंगविहंगमबन्धनं
शशिदिवाकरयोग्रहपीडनम् ।
 
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ ९॥
 
444
 
न केवलं मनुष्येषु दैवं देवेष्वपि प्रभुः ।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ १० ॥
 
445
 
अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां
मेरुमृत्कणतां तृणं कुलिशतां वज्रं तृणक्लीवताम् ।
वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया
लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११ ॥
 
446
 
अरक्षित तिष्ठति देवरक्षितं
सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोपि वने विसर्जितः
 
कृतप्रयत्नोपि गृहे न जीवति ॥ १२ ॥
 
447
 
सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् ।
धिग्दैवं निर्मलं नेत्रं पात्रं कज्जलभस्मनः ॥ १३ ॥
 
448
 
दाता बलि: प्रार्थयिता च विष्णु-
दर्दानं च भूर्वाजिमखस्य कालः ।
नमोस्तु तस्यै भवितव्य तायै
 
यस्याः फलं बन्धनमेव जातम् ॥ १४ ॥
 
केषामन्येते ।