This page has not been fully proofread.

दैवाख्यानम्
 
436
 
नमस्यामो देवान्ननु हतविधेस्तेपि वशगा
विधिर्वन्द्यः सोपि पतिनियतकमैकफलदः ।
फलं कर्मायत्तं यदि किममरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २ ॥
 
437
 
खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके.
वाञ्छन्देशमनातपं विधिवशाद्वित्वस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता असं सशब्द शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ ३ ॥
 
438
 
मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयत्वाहवे
वाणिज्यं कृषिसेवनादि सकला विद्याः कला: शिक्षतु ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ४ ॥
एते भर्तृहरे: ।
 
439
 
स्ववश: करोति कर्म प्रमादतः परत्रशो भवति ।
स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः ॥ ५ ॥
 
कस्यापि ।
 
६५
 
440
 
किं त्वं न वेत्सि जगति प्रख्यातं लाभकारणे मूल॑म् ।
विधिलिखिताक्षरमालं फलति कपालं न भूपालः ॥ ६ ।
 
441
 
वीपादन्यस्मादपि मध्यादपि जेलनिधेर्दिशोप्यन्तात् ।
भानीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ ७ ॥
 
442
 
भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम् ।
शूराव कृतविद्याश्च वने सीदन्ति पाण्डवाः ॥ ८ ॥