This page has been fully proofread once and needs a second look.

६४
 
शार्ङ्गधरपद्धतिः
 

429
 

 
अतिसाहस मतिदुष्कर मत्याश्रयैचर्यं च दानमर्थानाम् ।
 

योपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ २ ॥
 

430
 

केपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
 

न तु संत्यजन्ति वित्तं मात्सर्यमिवामाः सततम् ॥ ३ ॥
 

431
 

और्वा इवातिलुब्धा भवन्ति धनलवणवारि बहुतृष्णाः ।

तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ४ ॥
 

432
 

सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः ।

लोभोवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ ५ ॥
 

एते क्षेमेन्द्रस्य ।
 

433
 

नात्यर्थमर्थार्थनया लुब्धमुद्रेवेजयेज्जनम् ।
 

अब्धिर्दत्ताश्वरत्न श्रीर्मथ्यमानोसृजद्विम् ॥ ६ ॥
 

434
 

प्रायेण धनिनामेव धनलोभो निरन्तरम् ।
 

पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः ॥ ७ ॥
 

एतौ कयोरपि ।
 

---------
अथ दैवाख्यानम् ॥ २९ ॥
 

435
 

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे

विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे ।

रुद्रो येन कपालपाणिपुट के भिक्षाटनं कारितः

सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १ ॥
 

भर्तृहरेः ।