This page has not been fully proofread.

६४
 
शार्ङ्गधरपद्धतिः
 
429
 
अतिसाहस मतिदुष्कर मत्याश्रयै च दानमर्थानाम् ।
 
योपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ २ ॥
 
430
 
केपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते ।
 
न तु संत्यजन्ति वित्तं मात्सर्यमिवाथमाः सततम् ॥ ३ ॥
 
431
 
और्वा इवातिलुब्धा भवन्ति धनलवणवारि बहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ४ ॥
 
432
 
सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः ।
लोभोवटं प्रविष्टः कुटिलं हृदयं किराटानाम् ॥ ५ ॥
 
एते क्षेमेन्द्रस्य ।
 
433
 
नात्यर्थमर्थार्थनया लुब्धमुद्रेजयेज्जनम् ।
 
अब्धिर्दत्ताश्वरत्न श्रीर्मथ्यमानोसृजद्विपम् ॥ ६ ॥
 
434
 
प्रायेण धनिनामेव धनलोभो निरन्तरम् ।
 
पश्य कोटियोपेतं लक्षाय प्रणतं धनुः ॥ ७ ॥
 
एतौ कयोरपि ।
 
अथ दैवाख्यानम् ॥ २९ ॥
 
435
 
ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तः सदा संकटे ।
रुद्रो येन कपालपाणिपुट के भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १ ॥
 
भर्तृहरेः ।