This page has been fully proofread once and needs a second look.

६२
 
शाधरपद्धतिः
 

 
भवति च पुनर्भूयान्भेदः फलं प्रति तद्यथ ।

प्रभवति शुचिर्विबिम्ग्राहे मणिर्न मृदां चयः ॥ २ ॥
 

कालिदासस्य ।
 

415
 

लभेत सिकतासु तैलमपि यत्नतः पीडय-

न्पिबेच्च मृगतृष्णिकामुसु सलिलं पिपासार्दित: ।

कदाचिदपि पर्यटञ्छशविषाणमासादये-

न्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ३ ॥
 

416
 

प्रसह्य मणिमुद्धरेन्मकरवक्रदंष्ट्राङ्कुरा-
-
त्समुद्रमपि संतरेत्प्रचल दुदूर्मिमालाकुलम् ।

भुजंगमपि कोपितं शिरसि पुष्पवद्धारये-

न्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥

एतौ भर्तृहरेः ।
 

417
 

मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।

अशुभं वाक्यमादत्ते पुरीमिव शूकरः ॥ ५ ॥
 

व्यासस्य ।
 

418
 

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ६ ॥
 

चाणक्यस्य ।
------------
अथ तृष्णानिन्दा ॥ २७ ॥
 

419
 

बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।
 

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥
 
१ ॥
भर्तृहरेः ।
420
 
चाणक्यस्य ।
 
१ ॥
भर्तृहरेः ।
 

तृष्णे देवि नमस्तुभ्यं धैर्यविष्ठप्लवकारिणि ।
 

विष्णु स्त्रैलोक्यनाथोपि यत्त्वया वामनीकृतः ॥ २ ॥
 

कस्यापि !