This page has not been fully proofread.

६२
 
शाधरपद्धतिः
 
भवति च पुनर्भूयान्भेदः फलं प्रति तद्यथ ।
प्रभवति शुचिर्विम्वग्राहे मणिर्न मृदां चयः ॥ २ ॥
 
कालिदासस्य ।
 
415
 
लभेत सिकतासु तैलमपि यत्नतः पीडय-
न्पिबेच मृगतृष्णिकामु सलिलं पिपासार्दित: ।
कदाचिदपि पर्यटञ्छशविषाणमासादये-
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ३ ॥
 
416
 
प्रसह्य मणिमुद्धरेन्मकरव कदंष्ट्राङ्करा-
त्समुद्रमपि संतरेत्यचल दुर्मिमालाकुलम् ।
भुजंगमपि कोपितं शिरसि पुष्पवद्धारये-
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥
एतौ भर्तृहरेः ।
 
417
 
मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीपमिव शूकरः ॥ ५ ॥
 
व्यासस्य ।
 
418
 
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुजंगानां केवलं विषवर्धनम् ॥ ६ ॥
 
अथ तृष्णानिन्दा ॥ २७ ॥
 
419
 
बलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः ।
 
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥
 
420
 
चाणक्यस्य ।
 
१ ॥
भर्तृहरेः ।
 
तृष्णे देवि नमस्तुभ्यं धैर्यविष्ठवकारिणि ।
 
विष्णु त्रैलोक्यनाथोपि यत्वया वामनीकृतः ॥ २ ॥
 
कस्यापि !