This page has been fully proofread once and needs a second look.

मूर्खनिन्दा
 

श्रुत्वैवं गृहिणीवचांसि निकटे कुद्यस्य निष्किञ्चनो

निःश्वस्याभुश्रुजलप्लवप्लुतमुखः पान्थः पुनः प्रस्थितः ॥ ८ ॥
 

409
 

वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्मक
भकं
रि
क्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।

दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा

लब्धं कर्पटमन्यतस्तदुपरि क्षित्वा रुदन्निर्गतः ॥ ९ ॥
 

410
 

वृद्धोन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं

कालोभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो !

यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला

दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ १० ॥
 

411
 

अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।

अहमपि न तथाया न तथाया वद राजन्कस्य दोषोयम् ॥ ११ ॥
 

रिद्रस्य दोषः । केषामप्येते ।
 

412
 

चण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह ।
 

चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १२ ॥
 

श्रीवाल्मीके:
 

----------
अथ मूर्खनिन्दा ॥ २६ ॥
 

413
 

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।

लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥ १ ॥
 

चाणक्यस्य ।
 

114
 

वितरति गुरु: प्राज्ञे विद्यां यथैव तथा जडे
 

न तु खलु तयोर्ज्ञाने शक्तितिं करोत्युपहन्ति वा ।