This page has not been fully proofread.

मूर्खनिन्दा
 
श्रुत्वैवं गृहिणीवचांसि निकटे कुस्य निष्किञ्चनो
निःश्वस्याभुजलप्लवप्लुतमुखः पान्थः पुनः प्रस्थितः ॥ ८ ॥
 
409
 
वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्मक
रक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।
दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षित्वा रुदन्निर्गतः ॥ ९ ॥
 
410
 
वृद्धोन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो !
यत्नात्संचिततैलबिन्दुघटिका भनेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजवधूं श्वश्रूश्चिरं रोदिति ॥ १० ॥
 
411
 
अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।
अहमपि न तथा न तथा वद राजन्कस्य दोषोयम् ॥ ११ ॥
 
हरिद्रस्य दोषः । केषामप्येते ।
 
412
 
चण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह ।
 
चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १२ ॥
 
श्रीवाल्मीके:
 
अथ मूर्खनिन्दा ॥ २६ ॥
 
413
 
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पण: किं करिष्यति ॥ १ ॥
 
चाणक्यस्य ।
 
114
 
वितरति गुरु: प्राज्ञे विद्यां यथैव तथा जडे
 
न तु खलु तयोर्ज्ञाने शक्ति करोत्युपहन्ति वा ।