This page has not been fully proofread.

६०
 
शार्ङ्गधरपद्धतिः
 
अथ दरिद्रनिन्दा ॥ २५ ॥
 
401
 
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः ।
बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव ॥ १ ॥
 
कस्यापि ।
 
402
 
हे दारिद्र्य नमस्तुभ्यं सिद्धोहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कञ्चन ॥ २ ॥
 
कस्यापि ।
 
403
 
इह लोकेपि धनिनां परोषि स्वजनायते ।
 
स्वजनोषि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥ ३ ॥
 
404
 
रोगी चिरप्रवासी परात्रभोजी परावसथशायी ।
यज्जीवति तन्मरणं यन्मरणं सोस्य विश्रामः ॥ ४ ॥
 
405
 
परीक्ष्य सत्कुलं विद्यां शीलं शौर्य सुरूपताम् ।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम् ॥ ५ ॥
 
406
 
दारिद्र्यानलसंतापः शान्तः संतोषवारिणा ।
याचकाशाविघातान्तर्दाहः केनोपशाम्यति ॥ ६ ॥
 
407
 
अर्था न सन्ति न च मुञ्चति मां दुराशा
त्यागाच संकुचति दुर्ललितं मनो मे ।
याचाच लाघवकरी स्ववधे च पापं
प्राणा: स्वयं व्रजत किं प्रविलम्बितेन ॥ ७ ॥
माघकवेः ।
 
408
 
मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिमा-
नायातस्तव वत्स दास्यति पिता ग्रैवेयकं वाससी ।
 
1